SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ FAGANAGAR | ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधकम् ॥२१॥ धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत्। आशंसावर्जितोऽन्योऽपि किंनैवं चेन्न यत्तथा ॥ २२ ॥ भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यङ्गमिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि ॥ २३ ॥ तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते । सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः ॥ २४ ॥ तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ २५॥ धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुक्तिलक्षणम् । हेयं धर्म तदाश्रित्य न तु संज्ञानयोगकम् ॥ २६ ॥ अतस्तत्रैव युक्तास्था यदि सम्यङ् निरूप्यते । संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् ॥ २७ ॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥ २८ ॥ इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः ॥२९॥ पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् । न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः ॥३०॥ अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मति चापरे ॥ ३१ ॥ Jain Education install For Personal & Private Use Only Ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy