________________
+
5+
COACC5455
91 विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्व परार्थकरणं यते यम् ॥५॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियोतकर्त्तव्यता भवति ॥६॥ इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम्। मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥७॥ एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥८॥ उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री । मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति॥९॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति ॥१०॥ एताःखल्वाभ्यासात् क्रमेण वचनानुसारिणां पुंसाम्। सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः॥११॥ एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ १२ ॥ अभ्यासोऽपि प्रायः प्रभूतजन्मानुगोभवति शुद्धः।कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥१३॥ अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति। गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञेयः॥१४॥ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥१५॥
Jain Education in
For Personal & Private Use Only
W
ww.jainelibrary.org