________________
सम्यग्दर्शनयोगाज्ज्ञानं तद् ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च । १५। * लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः॥१६॥ | 12 १२अस्मिन्सति दीक्षाया अधिकारी तत्त्वतोभवति सत्त्वः। इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया? PI श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद् यथोदितस्यैव साध्वीति ॥२॥ | ४ यो निरनुबन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितःसोऽपि ज्ञान्येव तत्फलतः३ |
| चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः। गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥४॥ है| यस्यास्ति सस्क्रियायामित्थं सामर्थ्ययोग्यताऽविकला।गुरुभावप्रतिबन्धाद्दीक्षोचित एव सोऽपि किल५ |
| देयाऽस्मै विधिपूर्व सम्यक्तन्त्रानुसारतो दीक्षा। निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् ॥६॥ है देशसमग्राख्येयं विरतिासोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः॥७॥
नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः ॥८॥ कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ॥९॥
Jain Education in
For Personal & Private Use Only
DTww.jainelibrary.org