________________
ॐॐAMGARA%AR
अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्षान्तिः। आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०॥ चरमाद्यायां सूक्ष्मा अतिचाराःप्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ।११ श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥ १२ ॥ उदकपयोऽमृतकल्पं पुंसांसज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥१३॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः। प्राप्नोति न संवेगं तदाऽपि यः सोऽचिकित्स्य इति १४ नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥१५॥ यःशृण्वन् संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम्। गुरुभक्त्यादिविधानात् कारणमेतद् द्वयस्येष्टम्॥ १६॥ | ११शुश्रषा चेहायं लिखल वर्णयन्ति विद्वांसः। तदभावेऽपि श्रावणमसिराऽवनिकपखननसमम॥१॥ शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता। परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥२॥ यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रामः॥३॥
Jain Education Intel
For Personal & Private Lise Only
ANDr.jainelibrary.org