________________
SAACHER
दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिनातु ॥७॥ दावपि चशुद्धमिह यन् नानीतं देवताद्युपवनादेः। प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥८॥ | सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥९॥ भृतका अपिकर्त्तव्या यइह विशिष्टाःस्वभावतः केचित्। यूयमपि गोष्ठिका इह वचनेन सुखं तु तेस्थाप्याः
अतिसन्धानं चैषां कर्तव्यं न खलु धमित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ॥११॥ | देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः॥१२॥
प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात्। एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति | देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्यम्। अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम्॥१५॥ यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला।तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति॥१६॥
७ जिनभवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिमता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् भवति॥१॥
*HANKAR
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org