SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५ एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः॥१॥ आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावः ॥२॥ सभवति कालादेवप्राधान्येन सुकृतादिभावेऽपि।ज्वरशमनौषधसमयवदिति समयविदो विदुनिपुणम् ३ नागमवचनं तदधःसम्यक्परिणमति नियम एषोऽत्र। शमनीयमिवाभिनवे ज्वरोदयेऽकाल इतिकृत्वा४ आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा। पश्यन्त्यपवादात्मकमविषय इह मन्दधीनयनाः॥५॥ तत एवाविधिसेवा दानादौ तत्प्रसिद्धफल एव । तत्तत्वदृशामेषा पापा कथमन्यथा भवति ? ॥६॥ येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? ॥७॥ तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः।८। आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति॥९॥ दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति। परहितनिरतस्य सदा गम्भीरोदारभावस्य ॥१०॥ सर्वज्ञवचनमागमवचनं यत् परिणते ततस्तस्मिन् । नासुलभमिदं सर्व ह्युभयमलपरिक्षयात् पुंसाम् ११ For Persons & Private Use Only Jan Education in marw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy