SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ॥ ३ ॥ श्रीषोडशक अकरणम् ॥ ॥ ३९ ॥ Jain Education I 78 ॥७॥ निर्मलबोधोऽप्येवं शुश्रूषाभावसम्भवो ज्ञेयः । शमगर्भशास्त्रयोगात् श्रुतचिन्ताभावनासारः॥ ६ ॥ युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बीजाधानादिभावेन आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः ॥ ८ ॥ तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः ॥ ९ ॥ गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ॥१०॥ गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥११॥ धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेर्लिङ्गम् ॥ १२ ॥ सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत् स्फुरणम् | अविचार्य कार्यतत्त्वं तच्चिह्नं क्रोधकण्डूतेः ॥ १३ ॥ एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृतप्रभावाद् भवन्ति मैत्र्यादयश्च गुणाः ॥ १४ ॥ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ १५ ॥ एतज्जिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ १६ ॥ For Personal & Private Use Only ॥ चतुर्थ धर्मसिद्धि लिङ्गषोड शकम् ॥ ॥ ३९ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy