________________
T+
R
att
सिद्धेश्चोत्तरकार्य विनियोगोऽवन्ध्यमेतदेतस्मिन् ।सत्यन्वयसम्पत्त्या सुन्दरमिति तत् परं यावत्॥११॥ आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः। भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥१२॥ अस्माच्च सानुबन्धाच्छुद्धयन्तोऽवाप्यते द्रुतं क्रमशः। एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः॥१३॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥१४॥ एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः।चिरकालासेवितमपि न जातु बहु मन्यते पापम् १५ यद्यपि कर्मनियोगात् करोति तत् तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रंतत्सिद्धिमाप्नोति १६
४सिद्धस्य चास्य सम्यग् लिङ्गान्यतानि धर्मतत्त्वस्य।विहितानि तत्त्वविद्भिःसुखावबोधाय भव्यानाम् १ | औदार्य दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥२॥ PI औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् ॥३॥ | दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः। गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत् परमः ॥४॥ पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् ।पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः॥५॥
EACADA
Jain Education in I
I
For Personal & Private Use Only
Diww.jainelibrary.org