________________
॥२ योग-
॥३६॥
असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना।मुक्तमुक्तिर्न यन्न्याय्या भावेऽस्यातिप्रसङ्गिता ॥५१९॥ * आत्यन्तिक कल्पितादन्यतो बन्धो न जातु स्यादकल्पितः। कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता ॥ ५२० ॥ योग नान्यतोऽपि तथाभावादृते तेषां भवादिकम् । ततः किं केवलानां तु ननु हेतुसमत्वतः ॥ ५२१ ॥
फलादि
| स्वरूपम्॥ मुक्तस्येव तथाभावकल्पना यन्निरर्थका । स्यादस्यां प्रभवन्त्यां तु बीजादेवाङ्कुरोदयः ॥ ५२२ ॥ एवमाद्यत्र शास्त्रज्ञैस्तत्त्वतः स्वहितोद्यतैः । माध्यस्थ्यमवलम्ब्योच्चैरालोच्यं स्वयमेव तु ॥ ५२३ ॥ आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाबाधितो यस्तु युक्तस्तस्य परिग्रहः ॥५२४॥ खल्पमत्यनुकम्पायै योगशास्त्रमहार्णवात् । आचार्यहरिभद्रेण योगबिन्दुः समुद्धृतः ॥ ५२५ ॥ समुद्धृत्यार्जितं पुण्यं यदेनं शुभयोगतः। भवान्ध्यविरहात्तेन जनः स्ताद्योगलोचनः ॥ ५२६ ॥
MESSAGE
॥ श्रीयोगबिन्दुप्रकरणं समाप्तम् ॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org