SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 13 ॥ अथ षोडशकप्रकरणम् ॥३॥ १ प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादिभेदतः खलु वक्ष्ये किञ्चित् समासेन ।१॥ बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥२॥ | बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः॥३॥ बाह्य लिङ्गमसारं तत्प्रतिबद्धान धर्मनिष्पत्तिः। धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ॥४॥ | बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि। कञ्चुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ ५॥ II मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥६॥ वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत् तच्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥७॥ परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात्।अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया।८। | गुरुदोषारम्भितया लवकरणयत्नतो निपुणधीभिः । सन्निन्दादेश्च तथा ज्ञायत एतन्नियोगेन ॥९॥ SARKAR +A5 Jain Education intenanomal For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy