________________
एवं तु मूलशुद्धयेह योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम् ॥ ५१० अन्यद्वान्ध्येयभेदोपवर्णनाकल्पमित्यतः । न मूलशुद्धयभावेन भेदसाम्येऽपि वाचिके ॥५११ ॥ यथेह पुरुषाद्वैते बद्धमुक्ताविशेषतः । तदन्याभावनादेव तद्वैतेऽपि निरूप्यताम् ॥ ५१२ ॥ अंशावतार एकस्य कुत एकत्वहानितः । निरंश एक इत्युक्तः स चाद्वैतनिबन्धनम् ॥ ५१३ ॥ मुक्तांशत्वे विकारित्वमंशानां नोपपद्यते । तेषां चेहाऽविकारित्वे सन्नीत्या मुक्ततांशिनः ॥ ५१४ ॥ समुद्रोर्मिसमत्वं च यदंशानां प्रकल्प्यते । न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते ॥५१५ ॥ सदाद्यमत्र हेतुः स्यात्तात्त्विके भेद एव हि । प्रागभावादिसंसिद्धेर्न सर्वथान्यथा त्रयम् ॥ ५१६ ॥ सत्त्वाद्यभेद एकान्ताद्यदि तद्भेददर्शनम् । भिन्नार्थमसदेवेति तद्वद्वैतदर्शनम् ॥५१७ ॥ यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारितत्त्वेन न तदा बन्धसम्भवः॥ ५१८ ॥
१ क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते । नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥ १॥ गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा भिन्ना (निम्ना) वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ २॥
CS455555
Jain Education International
For Personal & Private Lise Only
www.jainelibrary.org