________________
१०
आत्यन्तिक योगफलादि स्वरूपम् ।।
र योग- 15 परिणामित्व एवैतत्सम्यगस्योपपद्यते । आत्माभावेऽन्यथा तु स्यादात्मसत्तेत्यदश्च न ॥४९९ ॥
* स्वभावविनिवृत्तिश्च स्थितस्यापीह दृश्यते । घटादेर्नवतात्यागे तथा तद्भावसिद्धितः ॥५०० ॥ ॥३५॥
नवताया नचात्यागस्तथा नाऽतत्स्वभावता। घटादेर्न न तद्भाव इत्यत्रानुभवः प्रमा ॥ ५०१ ॥ योग्यतापगमेऽप्येवमस्य भावो व्यवस्थितः। सौत्सुक्यविनिर्मुक्तः स्तिमितोदधिसन्निभः ॥ ५०२ ॥ एकान्तक्षीणसंक्लेशो निष्ठितार्थस्ततश्च सः। निराबाधः सदानन्दो मुक्तावात्मावतिष्ठते ॥ ५०३ ॥ अस्यावाच्योऽयमानन्दःकुमारी स्त्रीसुखं यथा। अयोगीन विजानाति सम्यग्जात्यन्धवद्धटम्॥५०४॥ | योगस्यैतत्फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिदाहृतम् ॥ ५०५॥
सद्गोचरादिसंशुद्धिरेषाऽऽलोच्यह धीधनैः । साध्वी चेत्प्रतिपत्तव्या विद्वत्ताफलकाङ्गिभिः ॥ ५०६ ॥ विद्वत्तायाः फलं नान्यत्सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः॥ ५०७ ॥ पुत्रदारादिसंसारः पुंसां संमूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् ॥ ५०८ ॥ कृतमत्र प्रसङ्गेन प्रायेणोक्तं तु वाञ्छितम् । अनेनैवानुसारेण विज्ञेयं शेषमन्यतः ॥५०९ ॥
BASSASSAGAR
*GANGANAGACAA%44
॥३५
Jain Education
a
l
For Personal & Private Use Only
Sirwww.jainelibrary.org