________________
69
दिदृक्षादिनिवृत्त्यादि पूर्वसूर्युदितं तथा। आत्मनोऽपरिणीमित्वे सर्वमेतदपार्थकम् ॥४८८ ॥ परिणामिन्यतो नीत्या चित्रभावे तथात्मनि। अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः ॥ ४८९ ॥ तत्स्वभावत्वतो यस्मादस्य तात्त्विक एव हि । क्लिष्टस्तदन्यसंयोगात्परिणामो भवावहः ॥ ४९० ॥ | स योगाभ्यासजे यो यत्तत्क्षयोपशमादितः। योगोऽपि मुख्य एवेह शुद्धयवस्थास्वलक्षणः॥ ४९१ ॥5 ततस्तथा तु साध्वेव तदवस्थान्तरं परम् । तदेवं तात्त्विकी मुक्तिः स्यात्तदन्यवियोगतः ॥ ४९२ ॥ अत एव च निर्दिष्टं नामास्यास्तत्त्ववेदिभिः। वियोगोऽविद्यया बुद्धिः कृत्स्नकर्मक्षयस्तथा ॥ ४९३ ॥ शैलेशीसंज्ञिताच्चेह समाधिरुपजायते । कृत्स्नकर्मक्षयः सोऽयं गीयते वृत्तिसंक्षयः ॥४९४ ॥ तथा तथा क्रियाविष्टः समाधिरभिधीयते । निष्ठाप्राप्तस्तु योगर्मुक्तिरेष उदाहृतः ॥ ४९५ ॥ संयोगयोग्यताऽभावो यदिहात्मतदन्ययोः। कृतो न जातु संयोगो भूयो नैवं भवस्ततः ॥ ४९६ ॥ | योग्यतात्मस्वभावस्तत्कथमस्या निवर्तनम् । तत्तत्वभावतायोगादेतल्लेशेन दर्शितम् ॥४९७ ॥ खनिवृत्तिः स्वभावश्चेदेवमस्य प्रसज्यते । अस्त्वेवमपि नो दोषः कश्चिदत्र विभाव्यते ॥ ४९८ ॥
RAHMARK
Jain Education
For Persons
Private Use Only
N
w
.jainelibrary.org