________________
68
चौद्धादिमत
निरासपूर्वक स्वमतस्थापन स्वरूपम्॥
॥२ योग
॥ एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते। स्थिरस्वभाव एकान्ताद्यतो नित्योऽभिधीयते ॥ ४७७ ॥ विन्दुः॥
| तदयं कर्तृभावः स्याद्भोक्तभावोऽथवा भवेत्। उभयानुभयभावो वा सर्वथापि न युज्यते ॥ ४७८ ॥ ॥३४॥ एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः। भोक्तभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ ४७९ ॥
न चाकृतस्य भोगोऽस्ति कृतं चाऽभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवौ ध्रुवौ॥ ४८० ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः ॥ ४८१ ॥ एकान्तनित्यतायां तु तत्तथैकत्वभावतः । भवापवर्गभेदोऽपि न मुख्य उपपद्यते ॥४८२ ॥ स्वभावापगमे यस्माट्यक्तैव परिणामिता । तयाऽनुपगमे त्वस्य रूपमेकं सदैव हि ॥४८३॥ | तत्पुन विकं वा स्यादापर्गिकमेव वा । आकालमेकमेतद्धि भवमुक्ती न सङ्गते ॥४८४ ॥ बन्धाच्च भवसंसिद्धिः सम्बन्धश्चित्रकार्यतः। तस्यैकान्तकभावत्वे न त्वेषोऽप्यनिबन्धनः॥ ४८५ ॥ नृपस्येवाभिधानाद्यः साताबन्धः प्रकीर्त्यते । अहिशङ्काविषज्ञाताच्चेतरोऽसौ निरर्थकः ॥ ४८६ ॥ एवं च योगमार्गोऽपि मुक्तये यः प्रकल्प्यते । सोऽपि निर्विषयत्वेन कल्पनामात्रभद्रकः ॥ ४८७ ॥
AC4%ACROCRACANCHA
॥३४॥
For Persons & Private Use Only
Jan Education in
Pww.jainelibrary.org