________________
Jain Education International
67
भावाविच्छेद एवायमन्वयो गीयते यतः । स चानन्तरभावित्वे हेतोरस्यानिवारितः ॥ ४६८ ॥ स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ॥ ४६९ ॥ इत्थं द्वयैकभावत्वे न विरुद्धोऽन्वयोऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् ॥ ४७० ॥ अन्वयार्थस्य न आत्मा चित्रभावो यतो मतः । न पुनर्नित्य एवेति ततो दोषो न कश्चन ॥ ४७१ ॥ न चात्मदर्शनादेव स्नेहो यत्कर्महेतुकः । नैरात्म्येऽप्यन्यथायं स्याज्ज्ञानस्यापि स्वदर्शनात् ॥ ४७२ ॥ अवेक्षणतो नो चेोऽपराधो ध्रुवेक्षणे । तद्गता कालचिन्ता चेन्नासौ कर्मनिवृत्तितः ॥ ४७३ ॥ उपप्लववशात्प्रेम सर्वत्रैवोपजायते । निवृत्ते तु न तत्तस्मिन् ज्ञाने ग्राह्यादिरूपवत् ॥ ४७४ ॥ स्थिरत्वामित्थं न प्रेम्णो यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः ॥ ४७५ ॥ बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम्॥ ४७६ ॥
१ ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम् । तथापि च ज्ञानमप्यप्रकाशः प्रत्यक्षतस्तस्य तथाधि (वि) रासीत् ॥ १ ॥ २ अस्या मुक्तेः । चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ १ ॥ इति बौद्धाः ॥
|
For Personal & Private Use Only
6
www.jainelibrary.org