________________
66
॥२ योग-
बौद्धमतनिरासस्वरूपम्॥
॥३३॥
RRRRRRRR
समाधिराज एतत्तत्तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्ये तत्तदेतदमृतं परम् ॥४५८॥ | तृष्णा यजन्मनो योनिर्धवा सा चात्मदर्शनात् । तदभावान्न तद्भावस्तत्ततो मुक्तिरित्यपि ॥ ४५९ ॥ न ह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन । न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ॥ ४६० ॥ सत्यात्मनि स्थिरे प्रेम्णि न वैराग्यस्य सम्भवः। न च रागवतोमुक्तिर्दातव्योऽस्या जलाञ्जलिः ॥४६१॥ नैरात्म्यमात्मनोऽभावः क्षणिको वाऽयमित्यदः। विचार्यमाणं नो युक्त्या द्वयमप्युपपद्यते ॥ ४६२॥ | सर्वथैवात्मनोऽभावे सर्वा चिन्ता निरर्थका । सति धर्मिणि धर्मा यञ्चिन्त्यन्ते नीतिमद्वचः॥ ४६३ ॥
नैरात्म्यदर्शनं कस्य को वाऽस्य प्रतिपादकः। एकान्ततुच्छतायां हि प्रतिपाद्यस्तथेह कः॥ ४६४ ॥ 'कुमारीसुतजन्मादिस्वप्नबुद्धिसमोदिता। भ्रान्तिः सर्वेयमिति चेन्ननु सा धर्म एव हि ॥४६५ ॥ कुमार्या भाव एवेह यदेतदुपपद्यते । वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् ॥ ४६६ ॥ क्षणिकत्वं तु नैवाऽस्य क्षणार्ध्वं विनाशतः। अन्यस्याभावतोऽसिद्धेरन्यथान्वयभावतः॥ ४६७ ॥ १ यया कुमारी स्वप्नान्तरेऽस्मिन् जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टा विगते च खिन्ना तथोपमान् जानत सर्वधर्मान् ॥१॥
AAAAA56544
Jain Education in
For Personal & Private Use Only
H
o ww.jainelibrary.org