SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education I 65 ४५१ ॥ बुद्ध्यध्यवसितस्यैवं कथमर्थस्य चेतनम् । गीयते तत्र नन्वेतत्स्वयमेव निभाल्यताम् ॥ ४४७ ॥ पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ ४४८ ॥ विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ ४४९ ॥ स्फटिकस्य तथा नाम भावे तदुपधेस्तथा । विकारो नान्यथासौ स्यादन्धाश्मन इव स्फुटम् ॥ ४५० ॥ तथा नामैव सिद्धैव विक्रियाप्यस्य तत्त्वतः । चैतन्यविक्रियाप्येवमस्तु ज्ञानं च सात्मनः ॥ निमित्ताभावतो नो चेन्निमित्तमखिलं जगत्। नान्तःकरणमिति चेत्क्षीणदोषस्य तेन किम् ॥ ४५२ ॥ निरावरणमेतद्यद्विश्वमाश्रित्य विक्रियाम् । न याति यदि तत्त्वेन न निरावरणं भवेत् ॥ ४५३ ॥ दिदृक्षा विनिवृत्तापि नेच्छामात्रनिवर्तनात् । पुरुषस्यापि युक्तेयं स च चिद्रूप एव वः ॥ ४५४ ॥ चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् ॥ ४५५ ॥ आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति सर्वथा न्याययोगिनः ॥ ॥ For Personal & Private Use Only ४५६ ॥ ४५७ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy