________________
चैतन्यमात्मनो रूपं न च तज्ज्ञानतः पृथक् ।युक्तितो युज्यतेऽन्ये तु ततः केवलमाश्रिताः ॥४२७॥ | अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः । नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् ॥ ४२८ ॥ तथा चेहात्मनो ज्ञत्वे संविदस्योपपद्यते । एषां चानुभवात्सिद्धा प्रतिप्राण्येव देहिनाम् ॥ ४२९ ॥ अग्नरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ॥ ४३० ॥15 ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात्कथमप्रतिबन्धकः ॥ ४३१ ॥
न देशविप्रकर्षोऽस्य युज्यते प्रतिबन्धकः । तथाऽनुभवसिद्धत्वादग्नरिव सनीतितः ॥४३२॥ + अंशतस्त्वेष दृष्टान्तो धर्ममात्रत्वदर्शकः । अदाह्यादहनायेवमत एव न बाधकम् ॥४३३ ॥
सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः। तस्याखिलविशेषेषु तदेतन्यायसङ्गतम् ॥४३४ ॥ सामान्यवद्विशेषाणां स्वभावो ज्ञेयभावतः । ज्ञायते स च साक्षात्त्वाद्विना विज्ञायते कथम् ॥ ४३५ ॥ अतोऽयं ज्ञस्वभावत्वात्सर्वज्ञः स्यान्नियोगतः। नान्यथा ज्ञत्वमस्येति सूक्ष्मबुद्धया निरूप्यताम् ॥४३६॥ १ अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ।। श्लो० ४२६ केचित्पदाजैमिनीयमतं॥
Jain Education Inter
For Personal & Private Use Only
M.jainelibrary.org