________________
॥२ योग- विन्दुः॥ ॥३१॥
॥ योगसिद्धिहेतु स्वरूपम् ॥
62 अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्र गतिस्तथा। न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ ४१६ ॥ हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ ४१७ ॥ समाधिरेष एवाऽन्यः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥४१८ ॥ एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् ॥ ४१९ ॥ असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः। निरुद्धाऽशेषवृत्त्यादि तत्स्वरूपानुवेधतः ॥४२०॥ धर्ममेघोऽमृतात्मा च भवशकशिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः ॥४२१ ॥ | मण्डकभस्मन्यायेन वृत्तिबीजं महामुनिः। योग्यताऽपगमाइग्ध्वा ततः कल्याणमश्नुते ॥ ४२२ ॥
यथोदितायाःसामग्र्यास्तत्स्वाभाव्यनियोगतः।योग्यतापगमोऽप्येवं सम्यग्ज्ञेयो महात्मभिः॥४२३॥ साक्षादतीन्द्रियानर्थान्दृष्ट्वा केवलचक्षुषा। अधिकारवशात्कश्चिद्देशनायां प्रवर्तते ॥४२४ ॥ प्रकृष्टपुण्यसामर्थ्यात्प्रातिहार्यसमन्वितः । अवन्ध्यदेशनः श्रीमान्यथाभव्यं नियोगतः ॥४२५॥ | 'केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् । अन्ये तु मुक्त्यवस्थायां सहकारिवियोगतः॥ ४२६ ॥
SHARIREYSICA
॥३१॥
Jain Education d
Dina
For Personal & Private Use Only
W
ww.jainelibrary.org