________________
5*
SEARCH
शुभकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः। स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ॥ ३६१ ॥ वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः ॥ ३६२ ॥ अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात्तद्वयुदासेन समता समतोच्यते ॥ ३६३ ॥ ऋद्धयप्रवर्तनं चैव सक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तावच्छेदः फलमस्याःप्रचक्षते अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्संक्षयो मतः ॥ ३६५ ॥ अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः । मोक्षप्रातिरनाबाधा सदानन्दविधायिनी ॥३६६ ॥ तात्त्विकोऽतात्त्विकश्चायमिति यच्चोदितं पुरा । तस्येदानीं यथायोगं योजनात्राभिधीयते ॥ ३६७ ॥ अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥ ३६८ ॥ सकृदावर्तनादीनामतात्त्विक उदाहृतः। प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥३६९ ॥8 चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमावथा तात्त्विक एव तु ॥ ३७० ॥ अस्यैव वनपायस्य सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव सापायस्य तथाऽपरः ॥३७१ ॥
Jain Education Intel
For Personal & Private Use Only
wि .jainelibrary.org