SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 56 ॥२ योग विन्दुः॥ अध्यास्मादि योगस्वरूपम् ॥ ॥२८॥ NAGAAAAA भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम् ॥३५१ ॥ एवं तु वर्तमानोऽयं चारित्री जायते ततः । पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः ॥३५२ ॥ लिङ्गं मार्गानुसार्येष श्राद्धः प्रज्ञापनाप्रियः। गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः ॥ ३५३ ॥ असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक्तत्राभिगच्छति ॥ ३५३ ॥ तथायं भवकान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः । ॥३५४ ॥ अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् ॥ ३५५ ॥ देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः। अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ॥ ३५६ ॥ औचित्याद्वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥ ३५७ ॥ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव तु ॥ ३५८ ॥ अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः। मनःसमाधिसंयुक्तः पौनःपुन्येन भावना ॥३५९ ॥ निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् ॥ ३६० ॥ ॥२८ Jain Education in For Persons & Private Lise Only pww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy