________________
Jain Education Internation
55
॥ ३४१ ।।
अस्यौचित्यानुसारित्वात्प्रवृत्तिर्नासती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ॥ ३४० ॥ संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक्तन्नैर्गुण्योपलब्धितः मुक्त ढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥ ३४२ ॥ एतत्त्यागाप्तिसिद्ध्यर्थमन्यथा तदभावतः । अस्यौचित्यानुसारित्वमलमिष्टार्थसाधनम् ॥ ३४३ ॥ औचित्यं भावतो यत्र तत्रायं सम्प्रवर्तते । उपदेशं विनाप्युच्चैरन्तस्तेनैव चोदितः अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेर्नियोगतः निमित्तमुपदेशस्तु पचनादिसमो मतः । अनैकान्तिकभावेन सतामत्रैव वस्तुनि प्रक्रान्ताद्यदनुष्ठानादौचित्येनोत्तरं भवेत् । तदाश्रित्योपदेशोऽपि ज्ञेयो विद्यादिगोचरः प्रकृतेर्वाऽऽनुगुण्येन चित्रः सद्भावसाधनः । गम्भीरोक्त्या मितश्चैव शास्त्राध्ययनपूर्वकः ॥ ३४८ ॥ शिरोदकसमो भाव आत्मन्येव व्यवस्थितः । प्रवृत्तिरस्य विज्ञेया चाभिव्यक्तिस्ततस्ततः ॥ ३४९ ॥ सत्क्षयोपशमात्सर्वमनुष्ठानं शुभं मतम् । क्षीणसंसारचक्राणां ग्रन्थिभेदादयं यतः ॥ ३५० ॥
॥ ३४६ ॥
॥ ३४७ ॥
For Personal & Private Use Only
॥ ३४४ ॥
॥ ३४५ ॥
*%%%%%%%%%
www.jainelibrary.org