________________
S4
॥२ योगबिन्दुः॥ ॥२७॥
योगपूर्वसेवास्वरूपम्।।
उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया। बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधतः ॥ ३२९ ॥ | तथा च तत्स्वभावत्वनियमात्कर्तृकर्मणोः । फलभावोऽन्यथा तु स्यान्न काङ्कटुकपक्तिवत् ॥ ३३०॥ कर्मानियतभावं तु यत्स्याच्चित्रं फलं प्रति । तद्वाध्यमत्र दार्वादिप्रतिमायोग्यतासमम् ॥ ३३१ ॥ नियमात्प्रतिमा नात्र न चातोऽयोग्यतैव हि । तल्लक्षणनियोगेन प्रतिमेवास्य बाधकः ॥ ३३२ ॥ दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवः। योग्यस्यायोग्यता चेति न चैषा लोकसिद्धितः॥ ३३३ ॥ कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथा शास्त्रादिसङ्गतः ॥ ३३४ ॥ शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक्। एवं किमत्र सिद्धं स्यात्तत एवास्त्वतो ह्यदः ॥ ३३५ ॥ तत्त्वं पुनर्रयस्यापि तत्स्वभावत्वसंस्थितौ । भवत्येवमिदं न्यायात्तत्प्राधान्याद्यपेक्षया ॥ ३३६ ॥ एवं च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा ॥ ३३७ ॥ तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया । सूक्ष्मबुद्धयाऽवगन्तव्यं न्यायशास्त्राऽविरोधतः एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते ॥ ३३९ ॥
X
॥२७॥
Jain Education
For Persona & Private Use Only
INETiw.jainelibrary.org