________________
53
| देवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । एवं व्यवस्थिते तत्त्वे युज्यते न्यायतः परम् ॥ ३१८ ॥ दैवं नामेह तत्त्वेन कर्मैव हि शुभाशुभम् । तथा पुरुषकारश्च खव्यापारो हि सिद्धिदः ॥ ३१९ ॥ खरूपं निश्चयेनैतदनयोस्तत्त्ववेदिनः । ब्रुवते व्यवहारण चित्रमन्योन्यसंश्रयम् ॥३२० ॥ न भवस्थस्य यत्कर्म विना व्यापारसम्भवः। न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि हि ॥ ३२१ ॥ व्यापारमात्रात्फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तद्देवं चित्रं ज्ञेयं हिताहितम् ॥ ३२२ ॥ एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि ॥ ३२३ ॥ अन्योन्यसंश्रयावेवं द्वावप्यतौ विचक्षणैः । उक्तावन्यैस्तु कमव केवलं कालभेदतः ॥३२४ ॥
दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ ३२५ ॥ | नेदमात्मक्रियाभावे यतः वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ॥ ३२६ ॥ | दैवं पुरुषकारेण दुर्बलं झुपहन्यते । देवेन चैषोऽपीत्येतन्नान्यथा चोपपद्यते ॥३२७॥ कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते ॥३२८ ॥
Jain Education in
For Persons & Private Use Only
W
ww.jainelibrary.org