SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गुणप्रकर्षरूपो यत्सर्वैर्वन्यस्तथेष्यते । देवतातिशयः कश्चित्स्तवादेः फलदस्तथा ॥२९८ ॥ भवंश्चाप्यात्मनो यस्मादन्यतश्चित्रशक्तिकात् । कर्माद्य(देर)भिधानादेर्नान्यथातिप्रसङ्गतः॥ २९९ ॥ माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया । तत्वं निरूपणीयं स्यात्कालातीतोऽप्यदोऽब्रवीत् ॥ ३० ॥ अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः ॥ ३०१ ॥ मक्तो बद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः। तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् ॥ ३०२॥ अनादिशुद्ध इत्यादिर्यश्च भेदोऽस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ॥ ३०३ ॥ विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ॥ ३०४ ॥ अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् ॥३०५ ॥ अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा ।गीयतेऽतीतहेतुभ्यो धीमतांसोऽप्यपार्थकः ॥ ३०६ ॥ ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः ॥ ३०७ ॥ साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाभिधानभेदात्तु भेदः कुचितिकाग्रहः ॥ ३०८ ॥ Jain Education Intera For Personal & Private Use Only W w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy