________________
AS
हूँ| अन्यथा योग्यताभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ॥ २७७ ॥ है। योग्यता चेह विज्ञेया बीजसिद्धयाद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः॥ २७८ ॥
वरबोधेरपि न्यायासिद्धिों हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि ॥ २७९ ॥ तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाबले । तीक्ष्णेन भाववजेण बहुसङ्क्लेशकारिणि ॥२८॥ आनन्दो जायतेऽत्यन्तंसात्त्विकोऽस्य महात्मनः। सद्ध्याध्यभिभवे यद्वद्व्याधितस्य महौषधात् ॥ २८१ ॥ भेदोऽपि चास्य विज्ञेयो न भूयो भवनं तथा। तीव्रसङ्क्लेशविगमात्सदा निःश्रेयसावहः॥ २८२ ॥ जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य ग्रन्थिभेदेऽपरे जगुः ॥२८३ ॥ अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ॥ २८४ ॥ मोहान्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि ॥ २८५ ॥ अहमेतानतः कृच्छाद्यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ॥ २८६ ॥ करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान्वर्धमानमहोदयः ॥ २८७॥
Jain Education in
For Personal & Private Use Only
Kwww.jainelibrary.org