________________
48
योगप्रस्तावे करणत्रयस्वरूपम् ॥
॥२ योग- भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न। पतितस्याऽऽप्यते बन्धो ग्रन्थिमुल्लङ्घय देशितः॥ २६६ ॥ बिन्दुः॥
| एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ॥ २६७ ॥ ॥२४॥ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो यन्न त्वेकोऽपीतरस्य तु ॥ २६८ ॥
तदत्र परिणामस्य भेदकत्वं नियोगतः। बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ॥२६९ ॥ हा अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते । अन्यैस्तल्लक्षणं यस्मात्सर्वमस्योपपद्यते ॥ २७० ॥
कायपातिन एवेह बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् ॥ २७१ ॥ | परार्थरसिको धीमान्मार्गगामी महाशयः । गुणरागी तथेत्यादि सर्व तुल्यं द्वयोरपि ॥ २७२ ॥ | यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः। सत्त्वोऽस्तुबोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि ॥ २७३ ॥ वरबोधिसमेतो वा तीर्थकृयो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वःसतां मतः॥ २७४ ॥ सांसिद्धिकमिदं ज्ञयं सम्यक्चित्रं च देहिनाम् । तथा कालादिभेदेन बीजसिद्धयादिभावतः ॥२७५॥ सर्वथा योग्यताभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपिप्राप्तिस्तुल्या यत्तन्नियोगतः ॥ २७६ ॥
॥२४॥
Jain Education
V
For Personal & Private Use Only
Silww.jainelibrary.org