SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 47 तुच्छं च तुच्छनिलयाप्रतिबद्धं च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता ॥ २५५ ॥ हेतुभेदो महानेवमनयोर्यव्यवस्थितः । चरमात्तयुज्यतेऽत्यन्तं भावातिशययोगतः ॥ २५६ ॥ धर्मरागोऽधिकोऽस्यैवं भोगिनः ख्यादिरागतः।भावतः कर्मसामर्थ्यात्प्रवृत्तिस्त्वन्यथापिहि॥ २५७॥ न चैवं तत्र नो राग इति युक्त्योपपद्यते । हविःपूर्णप्रियो विप्रो भुङ्क्ते यत्पूयिकाद्यपि ॥ २५८ ॥ पातात्वस्येत्वरं कालं भावोऽपि विनिवर्तते । वातरेणुभृतं चक्षुः स्त्रीरत्नमपि नेक्षते ॥२५९ ॥ भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद्गुरुदेवादिपूजनम् ॥२६० ॥ निजं न हापयत्येव कालमत्र महामतिः । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः ॥२६१ ॥ शक्तेयूनाधिकत्वेन नात्राप्येष प्रवर्तते । प्रवृत्तिमात्रमेतद्यद्यथाशक्ति तु सत्फलम् ॥२६२ ॥ एवम्भूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः । यथाप्रवृत्तिकरणव्यतिक्रान्तो महाशयः ॥ २६३ ॥ करणं परिणामोऽत्र सत्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तिमाख्यातमप्रर्वमभिवृत्ति च ॥२६ ॥ एतत्रिधापि भव्यानामन्येषामाद्यमेव हि । ग्रन्थि यावत्त्विदं तं तु समतिकामतोऽपरम् ॥ २६५॥ Jain Education in For Personal & Private Lise Only IMALn.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy