________________
॥ २ योगविन्दुः ॥
॥ २३ ॥
Jain Education
46
॥ २४६ ॥
औचित्यारम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाशयाः । अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः ॥ २४४॥ यश्चात्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः ॥२४५॥ प्रवृत्तिरपि चैतेषां धैर्यात्सर्वत्र वस्तुनि । अपायपरिहारेण दीर्घालोचनसङ्गता तत्प्रणेतृसमाक्रान्तचित्तरत्नविभूषणा । साध्यसिद्धावनौत्सुक्यगाम्भीर्यस्तिमितानना ॥ २४७ ॥ फलवद्गुमसद्वीजप्ररोहसदृशं तथा । साध्वनुष्ठानमित्युक्तं सानुबन्धं महर्षिभिः ॥ २४८ ॥ अन्तर्विवेकसम्भूतं शान्तोदात्तमविप्लुतम् । नाग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम् ॥ २४९ ॥ इष्यते चैतदप्यत्र विषयोपाधिसङ्गतम् । निदर्शितमिदं तावत्पूर्वमत्रैव लेशतः अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः प्रशमादिगुणान्वितः ॥ २५२ ॥ शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः ॥ २५३ ॥ न किंनरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति हेतुसामर्थ्यभेदतः ॥ २५४ ॥
॥ २५० ॥
॥ २५९ ॥
For Personal & Private Use Only
8 योगाधिकारि स्वरुपम् ॥
॥ २३ ॥
www.jainelibrary.org