________________
45
| सिद्धघन्तरस्य सद्बीजं या सा सिद्धिरिहोच्यते। ऐकान्तिक्यन्यथा नैव पातशक्त्यनुवेधतः ॥ २३३ ॥ सिद्धयन्तरं न सन्धत्ते या सावश्यं पतत्यतः। तच्छक्त्याप्यनुविद्वैव पातोऽसौ तत्त्वतो मतः ॥ २३४ ॥ सिद्धयन्तराङ्गसंयोगात्साध्वी चैकान्तिकी भृशम्।आत्मादिप्रत्ययोपेता तदेषा नियमेन तु॥ २३५ ॥ न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि । हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् ॥ २३६ ॥ पठितः सिद्धिदतोऽयं प्रत्ययो ह्यत एव हि सिद्धिहस्तावलम्बश्च तथान्यैर्मख्ययोगिभिः॥ २३७ ॥ अपेक्षते ध्रुवं ह्येनं सद्योगारम्भकस्तु यः। नान्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः ॥२३८ ॥
आगमात्सर्व एवायं व्यवहारः स्थितो यतः। तत्रापिहाठिको यस्तु हन्ताज्ञानांस शेखरः ॥ २३९ ॥ P] तत्कारी स्यात्स नियमात्तद्वेषी चेति यो जडः। आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते ॥ २४० ॥
न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान्यजात्यः सन् भजते शिखी॥ २४१ ॥ 8 एतस्य गर्भयोगेऽपि मातृणां श्रूयते परः। औचित्यारम्भनिष्पत्तौ जनश्लाघ्यो महोदयः ॥ २४२ ॥ | जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाभ्युदयहेतवः ॥ २४३ ॥
AASHAKAASHARA
Jain Education
na
For Personal & Private Use Only
Twww.jainelibrary.org