________________
A4
शुद्धानुष्ठानत्रिके शास्त्रमाहात्म्यम्॥
॥२ योग- अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः 'क्रियोदाहरणात्परः ॥ २२३ ॥ बिन्दुः॥ तस्मात्सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते। लोके मोहान्धकारेऽस्मिशास्त्रालोकः प्रवर्तकः ॥ २२४ ॥ ॥२२॥ पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ २२५ ॥
न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥ २२६ ॥ 8 यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ २२७ ॥ | यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणाः। उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ २२८ ॥ मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ॥ २२९॥ शास्त्र भक्तिर्जगद्वन्द्यैर्मुक्तेर्दूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥ २३० ॥ तथात्मगुरुलिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने योगमार्गे विशेषतः ॥ २३१ । आत्मा तदभिलाषी स्याद्गुरुराह तदेव तु । तल्लिङ्गोपनिपातश्च सम्पूर्ण सिद्धिसाधनम् ॥ २३२ ॥
१ क्रियादृष्टान्तश्चायम् । पडिवजिऊण किरियं तीये विरुद्धं निसेवए जो उ। अपवत्तगा उ अहियं सिग्धं च संपावई विणासं ॥१॥
Jain Education
For Personal & Private Use Only
A
lwww.jainelibrary.org