________________
ARRANSACARRC
| द्वितीयं तु यमायेव लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः ॥ २१३ ॥ तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् ॥ २१४ ॥ आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धानमत एके प्रचक्षते ॥ २१५॥ मुक्ताविच्छापि यच्छ्लाघ्या तमःक्षयकरी मता । तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः॥ २१६ ॥ द्वितीयाद्दोषविगमो न त्वेकान्तानुबन्धनात् । गुरुलाघवचिन्तादि न यत्तत्र नियोगतः ॥२१७ ॥ अत एवेदमार्याणां बाह्यमन्तर्मलीमसम् । कुराजपुरसच्छालयत्नकल्पं व्यवस्थितम् तृतीयाद्दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकाऽऽपाततुल्यः कैश्चिदुदाहृतः ॥ २१९ ॥ एतद्धयुदग्रफलदं गुरुलाघवचिन्तया । अतः प्रवृत्तिः सर्वैव सदैव हि महोदया ॥ २२० ॥ परलोकविधौ शास्त्रात्प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥ २२१ ॥ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ २२२ ॥
१ शास्त्रलक्षणं चेदम् ॥ शासनसामर्थेन तु सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् ॥ १ ॥
SACA4
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org