________________
ACCRACHCARECRACK
अभिमानसुखाभावे तथा क्लिष्टान्तरात्मनः।अपायशक्तियोगाच्च न हीत्थं भोगिनः सुखम् ॥ १९१ ॥ अतोऽन्यस्य तु धन्यादेरिदमत्यन्तमुत्तमम् । यथा तथैव शान्तादेः शुद्धानुष्ठानमित्यपि ॥ १९२ ॥ क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः ॥ १९३ ॥ ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् । कान्तादिगतगेयादि तथा भोगीव सुन्दरम् ॥ १९४॥ प्रकृतेर्भेदयोगेन नासमो नाम आत्मनः । हेत्वभेदादिदं चारु न्यायमुद्रानुसारतः ॥ १९५ ॥ एवं च सर्वस्तद्योगादयमात्मा तथा तथा । भवे भवेदतः सर्वप्राप्तिरस्याविरोधिनी ॥ १९६ ॥ सांसिद्धिकमलाद्यद्वा न हेतोरस्ति सिद्धता। तद्भिन्नं यदभेदेऽपि तत्कालादिविभेदतः ॥ १९७ ॥ विरोधिन्यपि चैवं स्यात्तथा लोकेऽपि दृश्यते । स्वरूपेतरहेतुभ्यां भेदादेः फलचित्रता ॥ १९८ ॥ एवमूहप्रधानस्य प्रायो मार्गानुसारिणः । एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते ॥ १९९ ॥ एवंलक्षणयुक्तस्य प्रारम्भादेव चापरैः । योग उक्तोऽस्य विद्वद्भिर्गोपेन्द्रेण यथोदितम् ॥ २० ॥ योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः ॥ २०१ ॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org