SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 39 +RASEARCREACTRIC5% दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः॥ १६९ ॥ एवं चापगमोऽप्यस्याः प्रत्यावर्त सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ॥ १७ ॥ ततः शुभमनुष्ठानं सर्वमेव हि देहिनाम् । विनिवृत्ताग्रहत्वेन तथाबन्धेऽपि तत्त्वतः ॥१७१ ॥ नात एवाणवस्तस्य प्राग्वत्सलेशहेतवः । तथान्तस्तत्त्वसंशुद्धेरुदग्रशुभभावतः ॥१७२ ॥ सत्साधकस्य चरमा समयापि विभीषिका । न खेदाय यथात्यन्तं तद्वदेतद्विभाव्यताम् ॥ १७३ ॥ सिद्धरासन्नभावेन यः प्रमोदो विजृम्भते । चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् ॥ १७४ ॥ न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न च। मुक्तिः पुनर्द्वयोपेता सत्प्रमोदास्पदं ततः ॥ १७५॥ आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः। भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन ॥ १७६ ॥ अत एव च योगज्ञैरपुनर्बन्धकादयः । भावसारा विनिर्दिष्टास्तथापेक्षादिवर्जिताः ॥१७७ ॥ भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ॥ १७९ ॥ Jain Education Intel For Personal & Private Lise Only C w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy