SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ रयोग योगपूर्वसेवास्वरूपम्॥ ॥१७॥ सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ ११८ ॥ चारिसञ्जीवनीचारन्याय एष सतां मतः। नान्यथाढेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् ॥ ११९ ॥ गुणाधिक्यपरिज्ञानाद्विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृत्ताधिक्ये तथात्मनः ॥ १२० ॥ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यत् ॥ १२१ ॥ व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ १२२ ॥ दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः।निःस्वाः क्रियान्तराशक्ता एतद्वर्गो हि मीलकः ॥ १२३ ॥ दत्तं यदुपकाराय द्वयोरप्युपजायते । नातुरापथ्यतुल्यं तु तदेताद्वधिवन्मतम् ॥ १२४ ॥ धर्मस्यादिपदं दानं दानं दारिद्यनाशनम् । जनप्रियकरं दानं दानं कीर्त्यादिवर्धनम् ॥ १२५ ॥ लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ १२६ ॥ सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥ १२७ ॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चति कुलधर्मानुपालनम् ॥१२८ ॥ Jain Education Inter For Personal & Private Use Only IN w .jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy