________________
I अन्यथैकस्वभावत्वादधिकारनिवृत्तितः । एकस्य सर्वतद्भावो बलादापद्यते सदा ॥ १०७ । BI तुल्य एव तथा सर्गः सर्वेषां सम्प्रसज्यते । ब्रह्मादिस्तम्बपर्यन्त एवं मुक्तिः ससाधना ॥ १०८ ॥
पूर्वसेवा तु तन्त्रज्ञैर्गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता ॥१०९ ॥
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥११०॥ है पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ १११ ॥
अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने नावर्णश्रवणं क्वचित् ॥ ११२ ॥ साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा ॥ ११३ ॥ त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं प्राहुर्धर्माद्यपीडया ॥११४ ॥ तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तबिम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा ॥११५ ॥ पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ॥ ११६ ॥ अविशेषेण सर्वेषामधिमुक्तिवशेन वा । गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ॥ ११ ॥
Jain Education UNI
For Personal & Private Use Only
I
NTww.jainelibrary.org