________________
॥२ योग-
| योगा
बिन्दुः॥
धिकारिस्वरूपम् ॥
नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् । पुद्गलानां परावर्तश्चरमो न्यायसङ्गतम् ॥९६ ॥ अत एवेह निर्दिष्टा पूर्वसेवापि या परैः । सासन्नान्यगता मन्ये भवाभिष्वङ्गभावतः ॥९७ ॥ अपुनर्बन्धकादीनां भवाब्धौ चलितात्मनाम् । नासौ तथाविधा युक्ता वक्ष्यामो युक्तिमत्रतु ॥ ९८ ॥ मुक्तिमार्गपरं युक्त्या युज्यते विमलं मनः । सबुद्धयासन्नभावेन यदमीषां महात्मनाम् ॥ ९९ ॥ तथा चान्यैरपि ह्येतद्योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद्गौपेन्द्रमिदं वचः। ॥१०॥ अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते ॥१०१॥ | | क्षेत्ररोगाभिभूतस्य यथात्यन्तं विपर्ययः। तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥१०२ ॥ जिज्ञासायामपि ह्यत्र कश्चित्सर्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ १०३ ।। ततस्तदात्वे कल्याणमायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु सर्वावस्थाहितं मतम् ॥ १०४ ॥ उभयोस्तत्वभावत्वात्तदावर्तनियोगतः। युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥ १०५ ॥ अत्राप्येतद्विचित्रायाः प्रकृतेयुज्यते परम् । इत्थमावर्तभेदेन यदि सम्यग्निरूप्यते ॥१०६॥
Jain Education
For Personal & Private Use Only
Airw.jainelibrary.org