________________
=
भवाभिनन्दिनः प्रायस्त्रिसंज्ञा एव दुःखिताः । केचिद्धर्मकृतोऽपि स्युलोकपक्तिकृतादराः ॥ ८६ ॥ क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः॥ ८७॥ लोकाराधनहेतोर्या मलिनेनान्तरात्मना । क्रियते सक्रिया सात्र लोकपक्तिरुदाहृता ॥ ८८ ॥ भवाभिनन्दिनो लोकपत्त्या धर्मक्रियामपि । महतो हीनदृष्ट्योच्चैर्दुरन्तां तद्विदो विदुः ॥८९ धर्मार्थं लोकपक्तिः स्यात्कल्याणाझं महामतेः। तदर्थं तु पुनर्धर्मः पापायाल्पधियामलम् ॥९॥ लोकपक्तिमतः प्राहुरनाभोगवतो वरम् । धर्मक्रियां न महतो हीनतात्र यतस्तथा ॥९१ तत्त्वेन तु पुनर्नैकाप्यत्र धर्मक्रिया मता । तत्प्रवृत्त्यादिवैगुण्याल्लोभक्रोधक्रिया यथा ॥९२ तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते । कायस्थितितरोयद्वत्तजन्मस्वामरं सुखम् ॥९३ ॥ तैजसानां च जीवानां भव्यानामपि नो तदा । यथा चारित्रमित्यवं नान्यदा योगसम्भवः॥ ९४ ॥ तृणादीनां च भावानां योग्यानामपि नो यथा। तदा घृतादिभावः स्यात्तद्वद्योगोऽपिनान्यदा ॥९५॥
१ असारोप्येष संसारः सारवानिव वक्ष्यते । दधिदुग्धाम्बुताम्बूलपण्यपण्याङ्गनादिभिः ॥ १ ॥
=
=
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org