________________
&॥ योगा
धिकारिस्वरूपम्।
॥२ योग- सर्वेषामेव सत्त्वानां तत्वाभाव्यनियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम् ॥ ७५ ॥ बिन्दुः॥
यादृच्छिकं न यत्कार्य कदाचिज्जायते कचित्। सत्त्वपुद्गलयोगश्च तथा कार्यमिति स्थितम् ॥ ७६ ॥ चित्रस्यास्य तथा भावे तत्वाभाव्याहते परः । न कश्चिद्धतुरवं च तदेव हि तथेष्यताम् ॥७७॥ स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् । तदन्यवादाभावश्चेन्न तदन्यानपोहनात् ॥७॥ कालादिसचिवश्चायमिष्ट एव महात्मभिः । सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते ॥ ७९ ॥ तथात्मपरिणामात्तु कर्मवन्धस्ततोऽपि च । तथा दुःखादि कालेन तत्स्वभावाहते कथम् ॥ ८॥ वृथा कालादिवादश्चेन्न तद्वीजस्य भावतः । अकिञ्चित्करमेतच्चेन्न स्वभावोपयोगतः ॥८१ ॥ सामग्र्याः कार्यहेतुत्वं तदन्याभावतोऽपि हि । तदभावादिति ज्ञेयं कालादीनां नियोगतः ॥ ८२ ॥ एतच्चान्यत्र महता प्रपञ्चेन निरूपितम् । नेह प्रतन्यतेऽत्यन्तं लेशतस्तूक्तमेव हि ॥८३ कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। नाध्यात्म योगभेदत्वादावर्तेष्वपरेष्वपि ॥ ८४ ॥ तीव्रपापाभिभूतत्वाज्ज्ञानलोचनवर्जिताः । सद्ववितरन्त्येषु न सत्त्वा गहनान्धवत् ॥५॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org