________________
| अतोऽत्रैव महान्यत्नस्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यों वादग्रन्थास्त्वकारणम् ॥६५॥
उक्तं च योगमार्ग स्तपोनिधूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥६६ ॥ | वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा। तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ॥ ६७ ॥
अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥६८ ॥ मुक्त्वातो वादसङ्घाटमध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥६९ ॥ सदुपायाद्यथैवाप्तिरुपेयस्य तथैव हि । नेतरस्मादिति प्राज्ञः सदुपायपरो भवेत् ॥७॥ सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः । दुरापं किन्त्वदोऽपीह भवाब्धौ सुष्टु देहिनाम्॥ ७१ ॥ चरमे पुद्गलावर्ते यतो यः शुक्लपाक्षिकः। भिन्नग्रन्थिश्चरित्री च तस्यैवैतदुदाहृतम् ॥७२॥ प्रदीर्घभवसद्भावान्मालिन्यातिशयात्तथा। अतत्त्वाभिनिवेशाच्च नान्येष्वन्यस्य जातुचित् ॥ ७३ ॥ अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ॥७४ ॥ १ जेसिमबड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिआ खलु अहिगे पुण किण्हपक्खिआ ॥ १॥
RRC
Jan Education
For Persons & Private Lise Only
Tww.jainelibrary.org