________________
॥२ योग बिन्दु " ॥ १४ ॥
योगाधिकारिस्वरूपम्॥
धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ॥ ५४ ॥ आविद्वदङ्गनासिद्धमिदानीमपि दृश्यते । एतत्प्रायस्तदन्यत्तु सुबह्वागमभाषितम् ॥५५॥ न चैतद्भुतसङ्घातमात्रादेवोपपद्यते । तदन्यभेदकाभावे तद्वैचित्र्याप्रसिद्धितः ॥५६॥ ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च पित्रोः सम्यगुपस्थानाद् ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरः पुमान् ॥ ५८॥ अत एव न सर्वेषामेतदागमनेऽपि हि । परलोकाद्यथैकस्मात्स्थानात्तनुभृतामिति ॥ ५९॥ न चैतेषामपि ह्येतदुन्मादग्रहयोगतः । सर्वेषामनुभूतार्थस्मरणं स्याद्विशेषतः ॥६०॥ सामान्येन तु सर्वेषां स्तनवृत्त्यादिचिह्नितम्।अभ्यासातिशयात्स्वप्नवृत्तितुल्यं व्यवस्थितम् ॥ ६१ ॥ स्वप्ने वृत्तिस्तथाभ्यासाद्विशिष्टस्मृतिवर्जिता। जाग्रतोऽपि क्वचित्सिद्धा सूक्ष्मबुद्धया निरूप्यताम् ॥६२॥ श्रूयन्ते च महात्मान एते दृश्यन्त इत्यपि । क्वचित्संवादिनस्तस्मादात्मादेर्हन्त निश्चयः ॥ ६३ ॥ एवं च तत्त्वसंसिद्धर्योग एव निबन्धनम् । अतो यनिश्चितैवेयं नान्यतस्त्वीदृशी क्वचित् ॥ ६४ ॥
॥१४॥
Jain Education
For Persons & Private Use Only
P
w
.jainelibrary.org