SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रद्धालेशान्नियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ॥४३ देवान्गुरून्द्विजान्साधून्सत्कर्मस्था हि योगिनः।प्रायः खप्ने प्रपश्यन्ति हृष्टान्सन्नोदनापरान्॥४४॥ नोदनापि च सा यतो (स्माद्) यथार्थवोपजायते। तथाकालादिभेदेन हन्त नोपप्लवस्ततः॥४५॥ स्वप्नमन्त्रप्रयोगाच्च सत्यस्वप्नोऽभिजायते । विद्वजनेऽविगानेन सुप्रसिद्धमिदं तथा ॥४६ ॥ पात्रत्वनिमित्तं सङ्गतं वचः । अयोगिनः समध्यक्षं यन्नैवंविधगोचरम् समध्यक्ष यन्नवावधगाचरम् ॥४७॥ प्रलापमानं च वचो यदप्रत्यक्षपूर्वकम् । यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः ॥४८॥ योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः । आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् ॥ ४९ ॥ अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् । विजानात्येतदेवं च बाधात्रापि न विद्यते ॥५०॥ आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः। परोक्षमपि चान्येषां न हि युक्त्या न युज्यते ॥५१॥ | किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते। मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥ ५२ ॥ 2 विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च बाह्यानां कालसङ्गतः ॥ ५३ ॥ Jain Education in For Personal & Private Use Only Daw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy