________________
Jain Education
***
25
॥ २१ ॥
॥ २३ ॥
॥ २४ ॥
दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । युज्येते एवमेवेति वक्ष्याम्यूर्ध्वमदोऽपि हि लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत् । श्रद्धामात्रैकगम्यस्तु हन्त नेष्टो विपश्चिताम् ॥ २२ ॥ वचनादस्य संसिद्धिरेतदप्येवमेव हि । दृष्टेष्टाबाधितं तस्मादेतन्मृग्यं हितैषिणा दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम् । असच्छ्रद्धाभिभूतानां केवलं बाध्यसूचकम् प्रत्यक्षेणानुमानेन यदुक्तोऽर्थो न बाध्यते । दृष्टेऽदृष्टेऽपि युक्ता स्यात्प्रवृत्तिस्तत एव तु ॥ २५ ॥ अतोऽन्यथाप्रवृत्तौ तु स्यात्साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तैवं सर्वमेवासमञ्जसम् ॥ २६ ॥ तद्दृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया । तथातथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः ॥ २७ ॥ अमुख्यविषयो यः स्यादुक्तिभेदः स बाधकः । हिंसाऽहिंसादिवद्यद्वा तत्त्वभेदव्यपाश्रयः ॥ २८ ॥ मुख्ये तु तत्र नैवासौ बाधकः स्याद्विपश्चिताम् । हिंसादिविरतावर्थे यमव्रतगतो यथा मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस्ततः । युक्तागमानुसारेण योगमार्गोऽभिधीयते अध्यात्मं भावना ध्यानं समता वृत्तिसङ्घयः । मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम्
॥ २९ ॥
For Personal & Private Use Only
॥ ३० ॥
॥
३१ ॥
1 www.jainelibrary.org