SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ ॥ अथ योगबिन्दुः॥ * *%AHARASHT नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्धय महोदयम् ॥१॥ सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः । सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति ॥२॥ मोक्षहेतुर्यतो योगो भिद्यते न ततः क्वचित् । साध्याभेदात्तथाभावे तूक्तिभेदो न कारणम् ॥३॥ मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं मृग्यं स्वहितकातिभिः ॥४॥ गोचरश्च स्वरूपं च फलं च यदि युज्यते । अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥५॥ आत्मा तदन्यसंयोगात्संसारी तद्वियोगतः। स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते ॥७॥ केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः । संसारी मुक्त इत्येतद्वितयं कल्पनैव हि ॥८॥ काञ्चनत्वाविशेषेऽपि यथा सत्काञ्चनस्य न । शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् ॥९॥ *****OCIRCASHA R A Jain Education in For Persons & Private Use Only Kitww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy