________________
Jain Education li
૪
॥ २११ ॥
कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथा सिद्धादिभावतः ॥ २०८ ॥ ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ २०९ ॥ सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥ २९० ॥ प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ २१२ ॥ इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥ २९३ ॥ तद्वत्कथाप्रीतियुता तथाविपरिणामिनी । यमेष्विच्छावसेयेह प्रथमो यम एव तु सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥ २१७ ॥ सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते
॥ २९४ ॥
॥ २१५ ॥
॥ २१६ ॥
॥ २९८ ॥
For Personal & Private Use Only
www.jainelibrary.org