________________
परादृष्टि
|स्वरूपम् ॥
योगदृष्टि-18| भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥१९७ ॥ समुच्चयः॥ तदभावे च संसारी मुक्तश्चेति निरर्थकम्। तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥ १९८॥ ॥१०॥ दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥१९९ ॥
अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ॥ २० ॥ अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥ २०१ ॥ योगिज्ञानंतुमानं चेत्तदवस्थान्तरं तु तत् । ततः किंभ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥ २०२ ॥ व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ २०३ ॥ संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तद्विदः॥ २०४ ॥ क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः। भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात्॥ २०५ ॥ अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्धृतः। दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥२०६ ॥ कुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि लेशतो न विरुध्यते ॥ २०७ ॥
CA1%AR
SACSCARRC
Jain Education in
For Personal & Private Use Only
KIRww.jainelibrary.org