SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Jain Education Int 19 ॥ १८७ ॥ ॥ १८८ ॥ ॥ १८९ ॥ ॥ १९० ॥ व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च ॥ भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीवरागादिवेदनः मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः स्वभावोऽस्य स्वभावो यन्निजा सत्चैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः ॥ १९९ ॥ अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन्वा सदैव हि ॥ ९९२ ॥ स एव न भवत्येतदन्यथाभवतीतिवित् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ १९३ ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ १९४ ॥ सक्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ १९५ ॥ क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥ १९६ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy