________________
करणमिति ॥१८॥ अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिरिति ॥ १९॥ सूक्ष्मभावप्रतिपत्तिरिति ॥ २०॥ ततः श्रद्धामृतास्वादनमिति ।। २१ ॥ ततः सदनुष्ठानयोग इति ॥ २२ ॥ ततः परमापायहानिरिति ॥ २३ ॥ सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृतेरिति ॥ २४ ॥ इति परं परार्थकरणमिति ॥ २५॥ भवोपग्राहिकर्मविगम इति ॥२६॥ ततः निर्वाणगमनमिति ॥ २७ ॥ तत्र च पुनर्जन्माद्यभाव इति ॥ २८ ॥ बीजाभावतोऽयमिति ॥ २९ ॥ कर्मविपाकस्तदिति ॥ ३०॥ अकर्मा चासाविति ॥ ३१॥ तद्वत एव तद्भह इति ॥ ३२ ॥ तदनादित्वेन तथाभावसिद्धेरिति ॥ ३३॥ सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्वहणे निमित्तमिति ॥ ३४॥ नाजन्मनो जरेति ॥ ३५ ॥ एवं च न मरणभयशक्तिरिति ॥ ३६॥ तथा न चान्य उपद्रव इति ॥ ३७॥ विशुद्धस्वरूपलाभ इति ॥ ३८॥ तथा आत्यन्तिकी व्यायाधानिवृत्तिरिति ॥ ३९॥ सा निरुपमं सुखमिति ।। ४० ॥ सर्वत्राप्रवृत्तेरिति ।। ४१ ॥ समाप्तकार्यत्वादिति ॥४२॥ न चैतस्य कचिदौत्सुक्यमिति ।। ४३।। दुःखं चैतत् स्वास्थ्यविनाशनेनेति ॥४४॥ दुःखशक्तयुद्रेकतोऽस्वास्थ्यसिद्धेरिति ॥४५॥ अहितप्रवृत्त्येति ॥ ४६ ।। स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेरिति ॥४७॥ परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेवेति ॥ ४८॥ भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहार इति ॥ ४९ ॥ प्रतीतिसिद्धश्चायं सद्योगसचेतसामिति ॥ ५० ॥ सुस्वास्थ्यं च परमानन्द इति ॥ ५१ ।। तदन्यनिरपेक्षत्वादिति ॥५२॥ अपेक्षाया दुःखरूपत्वा
* अध्याय |॥८॥ तीर्थकरत्वमाहात्म्यसिद्धत्वादि
स्वरूप निरूपणम्॥
एवं चतथा आत्यन्तिकी व्यापार न चैतस्य कचिदा
स्थ्य तु निरुत्सुकतया सर्वत्र प्रधानो व्यवहार यानिरपेक्षत्वादिति
अहितप्रवृत्योति ॥ १८ ॥
Jain Education
a
l
For Personal & Private Use Only
www.jainelibrary.org