________________
203
सामान्यगृहस्थधर्मनिरूपणम्॥
SONASAASANSARA%AS
पेक्षणमिति ॥ ११ ॥ तथा-अनुबन्धे प्रयत्न इति ॥५२॥ तथा-कालोचितापेक्षेति ॥ ५३॥ तथा-प्रत्यहं धर्मश्रवणमिति ॥५४॥ तथा-सर्वानभिनिवेश इति ॥५५॥ तथा-गुणपक्षपातितेति ॥५६॥ तथा-ऊहापोहादियोग इतीति ॥५७॥ एवं स्वधर्मसंयुक्तं, सद्गार्हस्थ्यं करोति यः॥ लोकद्वयेऽप्यसौ धीमान, मुखमाप्नोत्यनिन्दितम् ॥ ४॥ दुर्लभं प्राप्य मानुष्यं, विधेयं हितमात्मनः॥ करोत्यकाण्ड एवेह, मृत्युः सर्वं न किश्चन ॥५॥ सत्येतस्मिन्नसारासु, सम्पत्स्वविहिताग्रहः॥पर्यन्तदारुणासूच्चै-धर्मः कार्यो महात्मभिः॥६॥ इति ॥
॥ अथ द्वितीयोऽध्यायः॥ प्रायः सद्धर्मबीजानि, गृहिष्वेवंविधेष्वलम् ॥ रोहन्ति विधिनोप्तानि, यथा ला बीजानि सक्षितौ ॥७॥ बीजनाशो यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजाना-मपात्रेषु
विदुर्बुधाः॥८॥ न साधयति यः सम्य-गज्ञः स्वल्पं चिकीर्षितम् ॥ अयोग्यत्वात्कथं मूढः, स महत्साधयिष्यति ॥ ९॥ इति ॥ इति सद्धर्मदेशनाई उक्तः, इदानीं तद्विधिमनुवर्तयिष्याम इति ॥१॥ तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति ॥२॥ तथा-साधारणगुणप्रशंसेति ॥३॥ तथा-सम्यक् तदधिकाख्यानमिति॥४॥तथा-अबोधेऽप्यनिन्देति ॥५॥ शुश्रूषाभावकरणमिति ॥६॥ तथा-भूयो भूय उपदेश इति ॥७॥ तथा-बोधे प्रज्ञोपवर्णनमिति ॥८॥ तथा-तन्त्रावतार इति ॥९॥तथा-प्रयोग आक्षेपण्या इति ॥ १०॥ तथा-ज्ञानाद्याचारकथनमिति ॥ ११ ॥ तथा-निरीहशक्यपालनेति ॥ १२॥ तथा-अशक्ये भावप्रतिपत्तिरिति ॥१३॥ तथा-पालनोपायोपदेश इति ॥ १४ ॥ तथा-फलप्ररूपणेति ॥१५॥ देवर्द्धिवर्णनमिति ॥१६॥
Jan Education
For Persons & Private Lise Only
W
ww.jainelibrary.org