________________
२०३
॥८॥ श्री धर्म
BREE
॥शअ०॥ प्रथमः सामान्यगृहस्थधर्मप्ररूपणाध्यायः॥
प्रकरणम्॥
॥१०३॥
॥ १५॥ तथा-उपप्लुतस्थानत्याग इति ॥१६॥ तथा-स्वयोग्यस्याऽऽश्रयणमिति ॥ १७॥ तथा-प्रधानसाधुपरिग्रह इति ॥ १८॥ तथा-स्थाने गृहकरणमिति ॥ १९ ॥ अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्य चेति ॥ २० ॥ लक्षणोपेतगृहवास इति ॥२१॥ निमित्तपरीक्षेति ॥ २२॥ तथा-अनेकनिर्गमादिवर्जनमिति ॥ २३ ॥ तथा-विभवाद्यनुरूपो वेषो विरुद्धत्यागेनेति ॥ २४ ॥ तथा-आयोचितो व्यय इति ॥ २५ ॥ तथा-प्रसिद्धदेशाचारपालनमिति ॥ २६ ॥ तथा-गर्हितेषु गाढमप्रवृत्तिरिति ॥ २७ ॥ तथा-सर्वेष्ववर्णवादत्यागो विशेषतो राजादिष्विति ॥ २८ ॥ तथा-असदाचारैरसंसर्ग इति ॥ २९ ॥ संसर्गः सदाचारैरिति ॥ ३० ॥ तथा-मातापितृपूजेति ॥ ३१ ॥ तथा-अनुद्वेजनीया प्रवृत्तिरिति ॥ ३२॥ तथा-भर्तव्यभरणमिति ॥ ३३ ॥ तथा-तस्य यथोचितं विनियोग इति ॥ ३४ ॥ तथा-तत्प्रयोजनेषु बद्धलक्षतेति ॥ ३५॥ तथा-अपायपरिरक्षोद्योग इति ॥ ३६॥ तथा-गये ज्ञानस्वगौरवरक्षे इति ॥ ३७॥ तथा-देवातिथिदीनप्रतिपत्तिरिति ॥ ३८ ॥ तदौचित्याबाधनमुत्तमनिदर्शनेनेति ॥ ३९ ॥ तथा-सात्म्यतः कालभोजनमिति ॥४०॥ तथालौल्यत्याग इति ।। ४१॥ तथा-अजीर्णेऽभोजनमिति ॥ ४२॥ तथा-बलापाये प्रतिक्रियेति ॥४३॥ तथाअदेशकालचर्यापरिहार इति ॥४४॥ तथा-यथोचितलोकयात्रेति ॥४५॥ तथा-हीनेषु हीनक्रम इति ॥४६॥ तथा-अतिसङ्गवर्जनमिति ॥ ४७ ॥ तथा-वृत्तस्थज्ञानवृद्धसेवेति ॥४८॥ तथा-परस्परानुपघातेनान्योऽन्यानुबद्धत्रिवर्गप्रतिपत्तिरिति ॥४९॥ तथा-अन्यतरबाधासम्भवे मूलाबाधेति ॥५०॥ तथा-बलाबला
॥१०३॥
Jain Education Intl
For Personal & Private Use Only
S
w.jainelibrary.org